|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.16. अध्यायः 016
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रेण कुन्तीस्कन्धावसक्तहस्ताया गान्धार्या अंसावलम्बनेन सशोकैः पौरैर्युधिष्ठिरादिभिश्चानुगम्यमानेन सता वनं प्रति प्रस्थानम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततः प्रभाते राजा स धृतराष्ट्रोंऽबिकासुतः।
आनाय्य पाण्डवान्वीरान्वनषासे कृतक्षणः॥ 16-16-1(97638)
गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि।
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः॥ 16-16-2(97639)
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः।
वधूजनवृतो राजा निर्ययौ भवनात्ततः॥ 16-16-3(97640)
ततः स्त्रियः कौरवपाण्डवानां
याञ्चापराः कौरवराजवंश्याः।
तासां नादः प्रादुरासीत्तदानीं
वैचित्रिवीर्ये नृपतौ प्रयाते॥ 16-16-4(97641)
ततो लाजैः सुमनोभिश्च राजा
विचित्राभिस्तद्गृहं पूजयित्वा।
संयोज्याश्वैर्भृत्यवर्गं च सर्वं
ततः समुत्सृज्य ययौ नरेन्द्रः॥ 16-16-5(97642)
ततो राजा प्राञ्जलिर्वेपमानो
युधिष्ठिरः सस्वरं बाष्पकण्ठः।
विनद्योच्चैर्गां महाराज साधो
क्व यास्यसीत्यपतत्ताति भूमौ॥ 16-16-6(97643)
तथाऽर्जुनस्तीव्रदुःखाभितप्तो
मुहुर्मुहुर्निः श्वसन्भारताग्र्यः।
युधिष्ठिरं मैवमित्येवमुक्त्वा
निगृह्याथो दीनतरो बभूव॥ 16-16-7(97644)
वृकोदरः फल्गुनश्चैव वीरौ
माद्रीपुत्रौ विदुरः संजयश्च।
वैश्यापुत्रः सहितो गौतमेन
धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः॥ 16-16-8(97645)
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं
स्कन्धासक्तं हस्तमथोद्वहन्ती।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य
पाणिं ययौ धृतराष्ट्रः प्रतीतः॥ 16-16-9(97646)
तथा कृष्णा द्रौपदी यादवी च
बालापत्या चोत्तरा कौरवी च।
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः
सार्धं राज्ञा प्रस्थितास्ता वधूभिः॥ 16-16-10(97647)
तासां नादो रुदतीनां तदाऽऽसी-
द्राजन्दुःखात्कुररीणामिवोच्चैः।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां
विट्शूद्राणां चैव भार्याः समन्तात्॥ 16-16-11(97648)
तन्निर्याणे दुःखितः पौरवर्गो
गजाह्वये चैव बभूव राजन्।
यथापूर्वं गच्छतां पाण्डवानां
द्यूते राजन्कौरवाणां सभायाम्॥ 16-16-12(97649)
या नापश्यच्चन्द्रमा नैव सूर्यो
रामाः काश्चित्ताः स्म तस्मिन्नरेन्द्रे।
महावनं गच्छति कौरवेन्द्रे
शोकेनार्ता राजमार्गं प्रपेदुः॥ ॥ 16-16-13(97650)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि षोडशोऽध्यायः॥ 16 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-16-9 कुन्ती गान्धारीं अनयदिति शेषः। किंभूता। अर्थाद्गान्धार्या हस्तं स्कन्धासक्तं उद्वहन्ती। कुन्ती गान्धारीमनुभर्तृ व्रजन्तीमिति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|